स्वतन्त्रता-संग्रामे संस्कृविदुषाम् अवदानम्
August 14, 2023 2023-08-14 22:32स्वतन्त्रता-संग्रामे संस्कृविदुषाम् अवदानम्
अज्ञानतिमिरव्रातोच्छेदिनीमुषसं पराम्।
देवीं स्वतन्त्रतां वन्दे चित्कलां पारमेश्वरीम्।। (वैनायकम्-01.01 सर्गः)
स्वतन्त्रता शैवी शक्तिः। तयैव शिवः सृजति, अवति, संहरति, तिरोदधाति, अनुगृह्णाति च। स च भारतवर्षः। शिवात्मकस्य भारतवर्षस्यैषा यदा वैदेशिकक्रूरप्रशासनपरतन्त्रतया तिरेहितेव बभूव, तदा भारतेन शिवेन नाना स्वतन्त्रतासेनानीस्वरूपाः स्वशक्तयः प्रादुरभाविषत, या मङ्गलपाण्डेय-भगतसिंह-गोखले-बालगङ्गाधरतिलक-महात्मगान्धि-चन्द्रशेखर-सावरकर-नेहरु-इन्दिरागाँधिप्रभृतिभिरभिधानैः प्रसिद्धाः सत्यो वैयक्तिकं स्वार्थं परित्यज्य राष्ट्रस्यैकतां साधयामासुः स्वतन्त्रन्तां प्रकाशयामासुश्च। अस्मिन् स्वातन्त्र्यसत्रे न केवला राजनेतारः, अपितु नानाभाषाणां विद्वांसः कवयो महाकवयश्चापि यथाशक्ति स्वं स्वं हविः साहित्यमाध्यमेन समार्पयन्। तत्र संस्कृतविदुषामवदानं विस्मर्तुं कथमपि न शक्यते। तत्र महापुरुषा महर्षिदयानन्द-बंकिमचन्द्रचटर्जि-अप्पाशास्त्रिराशिबडेकर-महर्ष्यरविन्दघोष-पण्डितक्ष्माराव-भगदत्त-अम्बिकादत्तव्यास-मथुरानाथशास्त्रि-डा.गजाननबालकृष्णपऴसुले-जानकीवल्लशास्त्रि-रेवाप्रसाद्विवेदिप्रभृतयः संस्कृतं विद्वांसः प्रसिद्धाः। एभिः संस्कृतमाध्यमेनापि राष्ट्रैकता समसाध्यत। अत एवैते महापुरुषाः। स्वस्य वैयक्तिकस्य सुखस्य हितस्य दुखस्य च त्यागो राष्टैकहितचिन्तनं च हि महापुरुषत्वम्। उक्तम्-
वैयक्तिकानि दुःखानि कष्टं पीडां विस्मृत्य च।
राष्ट्रैकहितचिन्तेयं महापुरुषलक्षणम्।। (वैनायकम्-14.133)
आर्यसमाजस्य संस्थापको महर्षिदयानन्दो जातिवादादिप्रसूतमेकताया बाधकं भेदमपाकर्तुं वेदस्य प्रामाणिकीं व्याख्यां विधाय सर्वान् वेदं प्रति गन्तुं प्रैरयत्। बंकिमचन्द्रचटर्जिमहाशयस्य वन्दे मातरम् इति कविता प्रैरयत् प्रेरयति च। बङ्गभङ्गात् क्रुद्धेनाऽप्पाशास्त्रिणा संस्कृतचन्द्रिका-सूनृतवादिनीपत्रिकाभ्याम् आङ्गलप्रशासनं विरुन्धता स्वतन्त्रताया भूमी रचयाञ्बभूवे। यदा वङ्गभङ्गस्य विरोधी केसरिसमाचारपत्रस्य सम्पादको बालगङ्गाधरतिलको गृहीतः कारां प्रेषितश्च तदाऽप्पाशास्त्रिणा सूनृतवादिन्यां दण्डितो महात्मा तिलक इत्यभिधाना कविता प्राकाश्यत प्रशासकः क्लाइब दस्युनाम्ना समबोध्यत, तिलकस्योत्साहः समवर्ध्यत च। तिलकः शुकः, इदानीं स कनकपञ्जरे निबद्धः, तस्य चरणे पतितो निगडोऽपि साधुतामगमदिव, निगडोऽपि भूषणमेव समपद्यत- इत्यभिप्रायोऽत्र श्लोकत्रये द्रष्टुं शक्यते-
शुक सुवर्णमयस्तव पञ्जरो न खलु पञ्जर एष विभाव्यताम्।
मुखमिदं ननु हेमशलाकिकारदनशालिमृतेरिति भीषणम्।।
निन्दन्तु निसर्गदुर्धियो निगडं दूषणमित्यमुं तव।
अपरं स तथापि भूषणं भवतो येन विशिष्य पूज्यते।।
अपतद् भवतः पदाम्बुजे निजपुण्यस्य विपाकतोऽद्य सः।
यदपास्य जगत्यवद्यतां निगडः साधुतमत्वमागतः।।
(संस्कृत का समाज शास्त्र, पृ.121)
महर्षिणाऽरविन्देन भवानीभारतीनाम्नि काव्ये लिख्यते यन्मया स्वप्ने सनातनस्य भारतस्य क्षुधिता सिहींव गर्जन्ती भीषणा माता नरास्थिमालाधारिणी वृकोदराक्षी शत्रुसंहारोद्यता देवी विलोकिता, का त्वमिति पृष्टया तया स्वपरिचयं प्रदाय अहं वैष्णवं तेज इत्यभिधाय स्वतन्त्रता-संग्रामेऽवतारायाऽहं प्रेरितश्च-
माताऽस्मि भो पुत्रक भारतानां सनातनानां त्रिदशप्रियाणाम्।
शक्तो न यान् पुत्र विधिर्विपक्षः कालोऽपि नो नाशयितुं यमो वा।।
उत्तिष्ठ भो जागृहि सर्जयाग्नीन् साक्षाद्धि तेजोऽसि परस्य शौरेः।
वक्षस्थितेनेव सनातनेन शत्रून् हुताशेन दहन्नटस्व।।
(संस्कृतसाहित्य, बीसवीं शताब्दी12 पृ.)
अम्बिकादत्तव्यासेन शिवराजविजयेन क्वाऽधुना मन्दिरे जयध्वनिः, क्व सम्प्रति तीर्थघण्टानादः, क्वाद्यापि मठे मठे वेदघोषः इत्यादिभिर्वाक्यै राष्ट्रिया भावना प्रासारि। एवं पण्डितक्षमारावप्रभृतीनामपि स्वतन्त्रतासंग्रामेऽनिर्वचनीयमवदानम्। पण्डितक्षमाराव-महाशयाया अष्टादशसर्गा सत्याग्रहगीता प्रसिद्धा, यत्र गान्धिदर्शनं व्यक्तम्। आचार्यजानकीवल्लभशास्त्रिणा काकली प्रणीता, यत्रत्येन निनादय नवीनामये वाणि वीणाम् इति प्रसिद्धेन गीतेन भगवती भारती परतन्त्राणां भारतीयानां नवीनां दृशम् उन्मीलयितुं प्रार्थिता। रेवाप्रसादद्विवेदिनः स्वातन्त्र्यसंभवं नाम महाकाव्यं स्वातन्त्र्यशूराणामप्यवदानं व्यनक्ति।
एतादृशानामुक्तानां संस्कृतं विदुषां साहित्यिकप्रेरणया हुतात्मनां सुपुण्येन च स्वतन्त्रता समधिगता, किन्तु रक्तरक्ता, विभाजनबिभीषिकाऽनुभूता, अमृतेन सह विषमपि पीतम्। भारतं स्वतन्त्रं जातम्, किन्तु नामत एव, वस्तुत एष यः स्वतन्त्रताऽधिगमः स स्वन्त्रताभास एवेत्यपि नानासाहित्येषु नानारूपेण वर्णितम्। एषा स्वतन्त्रता खण्डिता, न तु पूर्णा। स्वतन्त्रे भारते गङ्गा, यमुना, गोदावरी,सरस्वती, नर्मदा, कावेरी च दृश्यते, किन्तु सिन्धुर्न दृश्यते। हिन्दुस्थानस्य सनातनहिन्दुसंस्कृतेश्च कल्पना तन्मूलं सिन्धुं विना कथं कर्तुं शक्यते? सिन्धुं विना गङ्गे च यमुने चैव इति मन्त्रो निरर्थको भवति, विभक्तभारतात् सिन्धुर्विना तत्सर्वकारानुमतिं पूजापात्रे कथमाह्वातुं शक्यते? एषोऽभिप्रायः 01.11.1921तमे वर्षे प्रादुर्भूतेन गजानन-बालकृष्णपऴसुलेनामकेन महाकविना वैनायकमहाकाव्ये सिन्धुसूक्तमित्यभिधानैः पञ्चदशभिः श्लोकैः प्रतिपादितः। तत्र सिन्धुसूक्तस्येमे श्लोका द्रष्टुं शक्यन्ते-
गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु।।
स्नानमङ्गलजलाधिदेवताः शब्दिताइह हि लोकमातरः।
भारतीयगणराज्यमन्दिरे अत्र सन्ति सकला विराजिताः।।
जाह्नवी भवति सा सरस्वती नर्मदाऽप्यथ च दृश्यतेऽत्र हि।
गौतमी च यमुनाऽपि दृश्यते हन्त हन्त क्व नु सिन्धुरस्ति तु।।
किं व्रवीषि-ननु विस्मराऽधुना? तां गतास्त्यपुनरागमाय सा?
तन्न तन्न न कदापि तद् भवेत् नैव भवति सिन्धुविस्मृतिः।।
किं व्रवीषि कुरु सिन्धुविस्मृतिम्? सिन्धुशून्यमपि हिन्दुजीवनम्?
अर्थशून्यमपि शब्दभाषणम्? प्राणशून्यमपि देहधारणम्?
(वैनायक-21 सर्ग-77,78,81,83 श्लोक)
तथापि भारतमिदानीं स्वतन्त्रम्। वैदेशेकानां क्रूरं प्रशासनं समाप्तम्। स्वतन्त्रे भारते वैदिकमिदं राष्ट्रगीतं सार्थकं भवतात्
आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम्,
आ राष्ट्रे राजन्यः शूर इषव्योऽतिव्याधी महारथो जायताम्,
दोग्ध्री धेनुर्वोढाऽनड्वानाशुः सप्तिः पुरन्ध्रिर्योषा जिष्णू रथेष्ठाः
सभेयो युवाऽस्य यजमानस्य जायताम्,
निकामे निकामे नः पर्जन्यो वर्षतु,
फलवत्यो न ओषधयः पच्यन्ताम्,
योगक्षेमो नः कल्पताम्।।
Search
Popular posts

Popular tags