सद्भावांजली – स्व. श्री राजीव गाँधी
August 19, 2020 2020-08-25 22:09सद्भावांजली – स्व. श्री राजीव गाँधी

पूर्वप्रधानमंत्री – भारतरत्न स्व. श्री राजीव गान्धिमहोदयानां
(१९४४-१९९१)
स्मृतिसद्भावाञ्जलि:
(२०-२१ अगस्त २०२० पर्यन्तम्)
पूर्वप्रधानमंत्री – भारतरत्न स्व. श्री राजीव गान्धिमहोदया:
ऊर्जा–सकारात्मक वैश्विक चिन्तनाभ्यामोतप्रोता: श्रीमन्तो राजीव गान्धिन: एकविंश्या: शताब्द्या भारतस्य निर्मातेत्युच्यते। आधुनिक भारतस्य सृष्टृदृष्टृरूपेण ते सर्वदा स्मरणीया भविष्यन्ति। संगणक कान्तिमताधिकारयो: आयु:सीम्नि न्यूनत्व–दूरसञ्चार क्रान्ति–पञ्चायतनसुदृढीकरण–सशक्तीकरण–नवोदयविद्यालय स्थापना प्रभृति प्रयोगधर्मिभिर्जनहितैषिभिश्च कार्यैरेपि: देशस्य दशा दिशा च परिवर्तिते, ये कृतज्ञराष्ट्राय युग पर्यन्तं चिरस्मरणीये भविष्यत:।
पञ्चायतराजसशक्तीकरणस्य नायका:
श्रीमन्तो राजीवगान्धिन: पञ्चायतनराज्य सशक्तीकरण–सुदृढीकरणयो: महानायका आसन्। श्रीमतां गान्धिनां चिन्तनमासीत् – यावत् पञ्चायतनराज्यव्यवस्था सशक्ता न भविता तावत् लोकतन्त्रस्य मूलानि सशक्तानि नैव भवितार:। तै: स्वकार्यकाले पञ्चायतन राज्य व्यवस्थाया: प्रस्ताव: साकल्येन निर्मापित:। तदीयचिन्तनस्य कार्यान्वयनं १९९२ तमे ईशवीयाब्दे तदा अभवत् यदा ७३ तमस्य संविधानसंशोधनस्य माध्यमेन पञ्चायतनराज्यव्यवस्थाया: विकासस्य सूर्योदयो जात:। १९९३ तमे ईशवीयाब्दे अप्रैलमासस्य २४ तमे दिनांङ्के समग्रदेशे पञ्चायतनराज्यव्यवस्था स्थापिता यया सर्वे प्रान्ता: निर्वाचनप्रक्रियायै बाध्या अभूवन्। वस्तुतस्तु सत्ताया विकेन्द्रीकरणस्य एकोनूतनोऽध्यायो भारतीयराजनीतौ अयुज्यत।
महिलासशक्तिकरणस्यसूत्रधार:
श्रीराजीवगान्धे: स्पष्टावधारणा आसीत् चेत देश:सत्यपि प्रगतिपथं याति तर्हि अस्यान् स्वजनसंख्यायो: सम्पूर्णदायस्य आवश्यकतां यास्यति। अस्य अयमाशय: वयं स्वकीयाया: अर्धजनसंख्याया: कथमपि त्यक्तुं न शक्तुम:। श्रीगाँधी शिक्षा–स्वरोजगार–स्वास्थ्यक्षेत्रैषु महत्त्वपूर्णा: परियोजना: प्रारमत् तथा च महिलाशक्तिकरणे प्राबलं प्रादात्। प्रधानमंत्रिकारने ते सती–दहेजयो: प्रययो: निषेधमवाप्रवान्। प्रजातान्त्रिकप्रकियासु महिलाजनानां सहभागितां सुनिश्चिम् अकरोत्। राजनीतौ महिलाआरक्षण विधेयकं प्रस्तावितम्। ते अकथयन् यत् महिलाजनानां पञ्चायतेषु भागग्रहणं प्रत्युत्तरदायीचेत्, विवेकशीला कार्यकुशला च भविष्यति।
अन्तत: ७३ तमा पंचायतीराज: ७४ तमा नगरपालिकानिकाय संशोधनविधेयके १९९२ तमे पारितमो जात: सहैव महिलाजनेष्य: ३३ प्रतिशतं भागम् आरक्षितं जातम्।
स्थानीय निकायानां स्वावलम्बनस्य प्रणेतार:
श्रीमतां राजीवगान्धिनां स्थानीयनिकायचुनाव प्रकियायां स्थानीयनिकायानां संस्थानीकरणे सुदृढीकरणे च विशिष्टं योगदानमासीत्। ते स्थानीय निकायानां राजकोषीय स्वायत्तताया: वास्तविकक्रियात्मकशक्तीनां पक्षपातिन: आसन्। तेषां मन्तव्यम् आसीद् यत् स्थानीया निकाया सर्वकारश्च स्वप्रजाहितदृष्ट्या स्वावलम्बिन: आत्मनिर्भराश्च भवेयु:, प्रत्यक्षं सर्वकारेण बिना काञ्चिदपि मध्यस्थतां सम्पर्कं कत्र्तुं च शक्नुयु:।
कलासंस्कृत्यो: संवाहका:
श्रीमन्तो राजीवगान्धिन: कलासंस्कृत्योर्माध्यमेन देशमेकसूत्रे आबद्धीकरणेन सह भारतीय संस्कृते: शाश्वतमूलानि सशक्तानि विधातुं समग्रां राष्ट्रियां संस्कृतिञ्च विकासयितुमुद्दिश्य क्षेत्रीय सांस्कृतिक केन्द्राणां स्थापनांकृतवन्त:। १९८५ तमे ईशवीयाब्दे अधिकाधिकं क्षेत्रीय सांस्कृतिक केन्द्राणां स्थापनाया घोषणां कृतवन्त:। साहित्यिक–सांस्कृतिकगतिविधीनां पारस्परिकादानप्रदानदृष्ट्या एतानि केन्द्राणि उपयोगीनि असिद्ध्यन्त। वर्तमाने इमानि केन्द्राणि कोलकाता–इलाहाबाद (प्रयागराज)-दीमापुर–पटियाला–नागपुर–उदयपुर नगरेषु प्रवर्तमानानि सन्ति।
कृषिसंरक्षक संवर्धका:
श्रीमतां राजीवगान्धिनां कार्यकाले कृषिरप्येकं प्रधानं विन्दुरासीत्। तै: कृषि अनुसंधानकार्यक्रमाणाम् उपायननीतीनां राज्यसर्वकारीय वित्तीय साहाय्ययोजनानाञ्च माध्यमेन राष्ट्रस्य कृषिनीतय: समृद्धा विहिता:। अपिच कृषिनिर्यातं समेधितुं सिञ्चन: सुधारसन्दर्भिता नीतयोऽपि केन्द्रीकृता:। एवं कृषिसंरक्षणं कृषि संवर्धनञ्च सदैव तदीय प्राथमिकतायां विद्यमानमासीत्।
सूचना–तकनीकी–संचारभागीरथा:
दूरसंचारक्रान्ति
श्रीमन्तो राजीवगान्धिन: दूरसंचार क्रान्तिजनकत्वेनापि स्मर्यते। ते वर्तमान ‘डिजिटल इण्डिया’ इत्यस्या: संकल्पनाया सूत्रधारा आसन्। तेषां प्रवर्तन–प्रेरणयैव १९८४ तमे ईशवीयाब्दे भारतीय दूरसंचार नेटवर्क स्थापनायै ‘सेन्टर फॉर डवलपमेन्ट ऑफ टेलीमेटिक्स’ संस्थाया: स्थापना संजाता। परिणामतो नगरेभ्यो ग्रामान् पर्यन्तं दूरसंचारस्य प्रसार: समभवत्। केवलं संचारमाध्यमैरेव ग्रामा: नगराणि देशश्च विश्वयुजो वभूवु:। १९८६ तमे ईशवीयाब्दे तत्र भवतां प्रवर्तनप्रेरणयैव रू.ञ्ज.हृ.रु. इत्यस्यापि स्थापना संजात।
संगणक (कम्प्यूटर) क्रान्ति
श्रीमन्तो राजीवगान्धिन: राष्ट्रस्य संगणकक्रान्ते: पुरोधस: अप्यासन् तै: देशे विज्ञानोद्योगयो: सार्वत्रिक विकासमेव न, अपितु सगणकं जनसामान्यं उपलम्भयितुं स्वप्न: दृष्ट:। सङ्गणकं जनसामान्येन योजयितुम् आयातशुल्कनैमूल्यीकरणेऽपि प्राथम्यं दर्शितम्। भारतीयरेल्वे टिकटानां कम्प्यूटरीकृतव्यवस्था एतेषामेवावदानमस्ति। तेषाम् अथकप्रयासै: अराजकीयक्षेत्रीयौद्योगिकसंस्थानामपि संगणकनिर्माणे प्रोत्साहनं दृष्टिपथमागतम्।
विज्ञानौद्योगिकीप्रवत्र्तका:
सम्प्रति भारतराष्ट्रेण विज्ञानतकनीक्यो: क्षेत्रे याऽप्युपलब्धिरासादिता, तस्यां श्रीमतां राजीवगान्धिमहोदयानामेव महती भूमिका वर्तते। तैर्देशे समुन्नता तकनीकी–संगणक–चलदूरभाष–प्रबन्धकौशलप्रभृतीराधुनिकप्रविधी: प्रदाय राष्ट्रोन्नयनं कृतम्। १९८५ तमे ईशवीयाब्दे जूनमासस्य द्वादशे दिनांङ्के विज्ञानस्य संयुक्तराज्यराष्ट्रियअकादम्या: (वाशिङ्गटननगरस्थाया🙂 स्वीयंभाषणं प्रस्तुवद्भिरिदमुक्तं यत् ‘स्वतन्त्रताया: अनन्तरं जनकल्याणाय अस्माभि: प्रौद्योगिक्यामवधानं केन्द्रीकृतंअपि चास्मिन् साफल्यमपि लब्धम्।’ तैरिदमप्युक्तं यत् भवदीयसाहय्येन वयं हरितक्रान्तिं सम्पादितवन्त:। यया अस्माकमर्थव्यवस्थयामामूलचूलं परिवर्तनं कृतम्। तै: विज्ञानं भारतीयप्रगतेर्धुरीत्यमन्यत। विज्ञानस्य माध्यमेन राष्ट्रस्य विकासाय यथासम्भवं प्रयासाश्चापि विहिता:।
वयस्कमताधिकरप्रदातार:
पूर्वं देशे मतदानस्यायु:सीमा २१ वर्षीय: आसीत्, किन्तु युवप्रधानमन्त्रिणां राजीवगान्धिमहोदयानां दृष्टौ आयु:सीमाऽयमुचितो नासीत्। १८ वर्षीयायुषां युवकानां कृते मताधिकारस्य व्यवस्थां कृत्वा तान् राष्ट्रंप्रति दायित्वनिर्वाहकान् विधातुं सशक्ताँश्च संविधातुं प्राथम्येन कार्यमिदं सम्पादितवन्त:। १९८९ तमेईशवीयाब्दे भारतीयसंविधानस्य ६१ तमस्य संशोधनस्य माध्यमेन मतदानस्यायु:सीमा २१ वर्षीय इत्यस्मात् न्यक्कृत्य १८ वर्षीय इति कृत:। एवं सम्प्रति १८ वर्षीया कोटिशो युवान: सांसद–विधायक–निकायजनप्रतिनिधीन् चेतुं क्षमन्ते।
क्रीडाप्रेणयिनोरचनाधर्मिणश्च
श्रीमन्तो राजीवगान्धिन: सर्वदा विद्यार्थिनां सर्वाङ्गीणविकासाय क्रीडाम् अपरिहार्याममन्यन्त। तै: बौद्धिकं शारीरिकं च विकासं मिथ: पूरकं स्वीकुर्वद्भि: क्रीडा–क्रीडकाँश्च सदैव प्रोत्साहितान् कुर्वद्भि: क्रीडां प्राथमिकता प्रदत्ता। श्रीमतां राजीवगान्धिनां क्रीडाप्रणयकारणादेव भारतसर्वकार: क्रीडाया:सर्वोच्चं पुरस्कारमपि तन्नाम्रि निर्धारितवान्। अयं पुरस्कार: १९९१–९२ तमे ईशवीयाब्दे स्थापित आसीत्। तदीयस्मृतौ क्रीडा: अन्या रचनात्मक गतिविधयश्च श्रीमद्भ्यो राजीवगान्धि महोदयेभ्य: यथार्था सम्मानाञ्जलिर्भविता।
अक्षय्योज्ज्र्याया:प्रतीका:
भारतराष्ट्रे अक्षयऊर्जा दिवस: २००४ ईशवीयाब्दात् प्रतिवर्ष अगस्तमासे विंशतितमे (२०) दिनाङ्के उत्सव इव सम्पाद्यते। इदं नवीकरणीय ऊर्जा विकाससन्दर्भितं जागरूकता अभियानम् अस्ति। भारतसर्वकारस्य नवीनेन नवीकरणीय ऊर्जा स्रोतोमन्त्रालयेन २००४ तमे ईशवीयाब्दे ऊर्जादिवसोत्सवायोजनस्य प्रारम्भो विहित:। अस्य प्रथम: कार्यक्रम: २००४ तमे ईशवीयाब्दे नवदेहल्यां तत: २००५ तमे ईशवीयाब्दे नागपुरे २००६ तमे ईशवीयाब्देऽपि नागपुरे, २००७ तमे ईशवीयाब्दे हैदराबादनगरे, २००८ तमे ईशवीयाब्दे पञ्चकूला (हरियाणा) प्रदेशे आयोजितोऽभवत्। अयमेव दिवस: पूर्व प्रधानमन्त्रिण: राजीवगान्धिनो जन्मदिवसरूपेणापि उत्सववत्सम्पाद्यते। अक्षयऊर्जाया मुख्यम्उद्देश्यम् अस्ति लोकानामस्मिन् विषयेऽभिज्ञानं यत्ते परम्परागतोर्जासंसाधनापेक्षया नवीकरणीयऊर्जाविषयेऽपि चिन्तयेयु: या प्रकृत्या पर्यावरणं प्रभावयति। अस्या उपयोगश्च वयं दीर्घकालं यावत् कत्र्तुं शक्नुम:।
राजीवगान्धिबलिदानदिवस:
श्रीमन्तो राजीवगान्धिन: हिंस–आंतकवादयोर्विरूद्धं संघर्षं कुर्वाणा:शान्तिसद्भावाभ्यामेवात्मन: सर्वस्वं बलिदानं कृतवन्त:। श्रीमन्तो गान्धिन: स्वल्पसमये एव राष्ट्राय अक्षय्यं प्रभावं स्थापितवन्त:। तदीयमाश्चर्यजनकं नेतृत्वं जातिवर्गरंग–भाषाधर्मादिभ्य उद्गत्य समाजे सद्भावनाया: स्थापनायै विश्वस्मिन् विश्वे प्रशंसनीयमतिष्ठत्। १९९१ तमे ईशवीयाब्दे मई मासस्य २१ तमे दिनांङ्के तमिलनाडुप्रदेशस्य पेरूंबुदूर नगरे मतदानकार्यक्रमान्तर्गतं लिट्टेसंघटनस्यात्मघातिभिराक्रमणकारिभि: अण्वस्त्रेण तेषां हत्या विहितेति अयमेव दिवसस्तदीय बलिदानदिवसरूपेण आतंकवादविरोधिदिवसरूपेण चापि आयोज्यते।
Search
Popular posts

Popular tags